|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.58. अध्यायः 058
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण युद्धस्य भीष्माद्यनभिमतत्वाभिधाने दुर्योधनेन भीष्माद्यनपेक्षणेन कर्णदुश्शासनसहायेन स्वेनैव पाण्डवहननप्रतिज्ञा ॥ 1 ॥ पुनर्धृतराष्ट्रेण दुर्योधनगर्हणम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-58-0(34058)
धृतराष्ट्र उवाच। 5-58-0x(3573)
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः।
तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥ 5-58-1(34059)
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम ।
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम ॥ 5-58-2(34060)
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ॥ 5-58-3(34061)
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् ।
यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः ॥ 5-58-4(34062)
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् ।
जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे ॥ 5-58-5(34063)
न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः।
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ॥ 5-58-6(34064)
न सोमदत्तो न शलो न कृपो युद्धमिच्छति ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥ 5-58-7(34065)
येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः ।
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥ 5-58-8(34066)
न त्वं करोषि कामेन कर्णः कारयिता तव।
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥ 5-58-9(34067)
दुर्योधन उवाच। 5-58-10x(3574)
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये।
न भीष्मे न काम्भोजे न कृपे न च बाह्लिके ॥ 5-58-10(34068)
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः ।
अन्येषु वा तावकेषु भारं कुत्वा समाह्वयम् ॥ 5-58-11(34069)
अहं च तात कर्णश्च रणयज्ञं वितत्य वै।
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥ 5-58-12(34070)
रथो वेदी स्रुवः खङ्गो गदा स्रुक् कवचोऽजिनम् ।
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥ 5-58-13(34071)
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे।
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ ॥ 5-58-14(34072)
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे।
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥ 5-58-15(34073)
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् ।
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमां ॥ 5-58-16(34074)
त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव ।
न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥ 5-58-17(34075)
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ 5-58-18(34076)
धृतराष्ट्र उवाच। 5-58-19x(3575)
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया।
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥ 5-58-19(34077)
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः।
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥ 5-58-20(34078)
प्रतीपमिव मे भाति युयुधानेन भारती।
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना ॥ 5-58-21(34079)
संपूर्मं पूरयन्भूयो धनं पार्थस्य माधवः।
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ 5-58-22(34080)
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति।
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥ 5-58-23(34081)
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्।
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान्॥ 5-58-24(34082)
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान्।
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ॥ 5-58-25(34083)
निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम् ।
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ॥ 5-58-26(34084)
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः।
गदया भीमसेनेन हताः शममुपैष्यथ ॥ 5-58-27(34085)
महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम् ।
बलं कुरूणां भीमेन तदा स्मर्तासि मे वचः ॥ 5-58-28(34086)
वैशम्पायन उवाच। 5-58-29x(3576)
एतावदुक्त्वा राजा तु सर्वांस्तान्पृथिवीपतीन्।
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ॥ ॥ 5-58-29(34087)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-58-13 चाचुर्होत्रं चतुर्णां होतॄणां ऋत्विजां समाहारः ॥ 5-58-21 भारती सेना प्रतीपं व्यस्ता सीमन्तिनीव भाति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|